Tuesday, June 30, 2015

आधानेऽजस्रनित्यत्वसमर्थनम्

अ. सी. सुब्बुकृष्णमहाग्निचित्

Ādhāne-ajasra-nityatva-samarthanam 
A. S. Subbukrishna Mahāgnicit (Somayājī) 

यज्ञो रक्षतु धार्मिकान्

अग्न्याधाने बुधमुनिवरैः कल्पिते स्पष्टमार्गे ।
नित्यं धार्या दशदिनमितं रात्रियुग्मेन साकम् ॥
शोचिष्केशाः श्रुतमपि विधिं शुद्धधीप्रापणाय ।
व्याकुर्वेऽद्धा सितमतिमतां प्रीतये नित्यमेव ॥

विषयानुक्रमः

अर्थानुशासनभागः                                             स्थिरीकरणभागः

१. आमुखम्                                        ५. शङ्कोत्थापनं समाधिश्च 
२. सूत्रकारमतिः                                  ६. अजस्रधारणमग्नीनामपि परम्परयाऽपूर्वसम्पादकत्वकथनम्
३. अजस्रव्रतनित्यता                            ७. व्रातपतीनप्रायश्चित्तिः
४. निगमनम्                                       ८. अजस्राकरणे लौकित्वसंभवोऽग्नीनां, प्रथमारम्भाधिकाराभावश्च 

अर्थानुशासनभागः

१. आमुखम्

इह खलु अधीतसाङ्गवेदकेन स्वस्वकल्पसूत्रोक्तमग्न्याधानं क्रियते । अग्निहोत्रादिकर्मजातं  वेदविहितं तेष्वग्न्याधानसिद्धेष्वग्निष्वनुष्ठीयते । तत्रापस्तम्बमहामुनिना कल्पकारेणोक्तः यः प्रकारः तेन तैत्तिरीयकाः वयमाधानादिकं कुर्मः । स्फीतालोकमध्यवर्ती घटः प्रतिपित्साविषयो न भवतीति भामतीकाराः । एवमेवाग्न्याधानप्रक्रियाऽपि संशयविदूरा । तथाप्यधिकारिभेदेन तत्रापि संशयो जायते । तत्रेदं विमर्शात्मकं किञ्चिदिव वक्तुकामा वयं प्रपन्नाः । सारग्राहिणो विद्वांसः असारं परित्यज्य मुदं प्रप्नुयुरीति दृढनिश्चयाः । अस्मिन् विषये प्रयत्यते तदर्थमिति पुनर्विज्ञापयामि ॥

२. सूत्रकारमतिः

आपस्तम्बेनाधानयोग्यनक्षत्राण्युक्तानि योग्यकालत्वेन पर्वद्वयमप्युक्तम् । अत उक्तनक्षत्रे क्रियमाणं नक्षत्राधानमिति पर्वणि क्रियमाणं पर्वाधानमिति च याज्ञिकसमाख्या । तत्रापि होमपूर्वाधानं प्रथमत उक्त्वा ततः परं सोमपूर्वाधानमिष्टिपूर्वाधानं च स्वसूत्रैः सूचयति कल्पसूत्रकारः । विस्तारभयात्तेषां सूचनमिह न क्रियते । एवं सूत्राणां  स्थितिः । आपस्तम्बसूत्राणां धूर्तस्वामिनः भाष्यं, तस्य रामाण्डाराणां वृत्तिः, रुद्रदत्तवृत्तिः, आण्डपिल्लाप्रयोगपद्धतिः इति चतुष्टयं प्राधान्येन याज्ञिकैः सर्वत्राद्रियते । तत्र नक्षत्राधानं शुक्लपक्षे भवति । तच्च प्रायेण होमपूर्वकाधानमेव । केचिदापूर्यमाणस्य पक्षस्य पर्वतुल्यत्वं मन्यमनाः सोमपूर्वाधानमप्याचरन्ति । पर्वणि क्रियमाणमाधानमपि होमपुर्वं वा सोमपूर्वं वा भवति । इष्टिपूर्वाधानं तु पूर्णिमायामेव  प्रवर्तते तथा चोदितत्वात्सूत्रकारेण । पुर्वोक्तविधिबलाद्दर्शे वा नक्षत्रे वा होमपूर्वाधानम् ॥

३. अजस्रव्रतनित्यता

तत्र सर्वत्राधानानन्तरं द्वादशाहाजस्रधारणं तत्प्रयुक्तव्रतं च सूत्रकारेण प्रथमतः विहितं -- 

द्वादशाहमजस्रेष्वग्निषु यजमानः स्वयमग्निहोत्रं जुहुयात् अप्रवसन्नहतं वसो बिभर्ति (आप.श्रौ. ५.२२.१३) इति । 

अत्र चतुष्टयं विहितम् -- अग्नीनामजस्रधारणं, स्वयं होमः, अप्रवासः, अहतवासोधारणमिति । 

तत्रेष्टिपूर्वाधाने पूर्णिमायामाधानस्यकृतत्वात् परस्मिन्दिने पूर्णिमायाः यागस्य कर्तव्यत्वात् इष्ट्यनारम्भे मनाभावादिष्टिपूर्वमेवाधानस्य कृतत्वादजस्रधारणादि न सम्भवति कालाभावात् । एतच्च सूत्रकारेणैव विहितं -- 

पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वारम्भणीयमाधानमपवृज्य (आप.श्रौ. ५.२४.९), श्वोभूते पौर्णमासेन यजेत (आप.श्रौ. ५.२५.२

इति सुत्रद्वयम् । अत्र "आधानमपवृज्य" इति प्रयुक्तम् । अतः अजस्रधारणनिवृत्तिः । अजस्रान्त एवाधानसमाप्तिरिति सूच्यते । "आधानमपवृज्य" इति वर्तमानत्वात् । एषेष्टिपूर्वाधाने स्थितिः  

सोमपूर्वाधाने आधानोत्तरकालं सोमस्यैव प्रवृत्तेः अजस्राणां विकल्पःउदवसानीयानन्तरं प्रथमाग्निहोत्रप्रभृति सोमयागानुष्ठानगतानि दिनानि संख्याय अवशिष्टदिनैः यावद्भिः द्वादशसंख्या पूर्यते तावन्त्यहान्यजस्रधारणं तत्प्रयुक्तव्रतञ्च भवति । कल्पान्तरे सोमपुर्वाधानेऽजस्रधारणाभावं पश्यामः (भारद्वाजसूत्रे) । अतः सोमपूर्वाधानेऽजस्रविकल्पः । याज्ञिकास्तु सोमपूर्वाधानेऽजस्रधारणं न कुर्वन्ति लाघवात् कल्पान्तरसम्मतत्वाच्च ॥  

आश्वलायनसूत्रवृत्तिकृत् नारायणोऽप्येवं वदति -- 

इष्टिपूर्वेऽजस्रधारणं नास्ति..............तथा सोमपूर्वेऽपि नास्ति । (आश्व.श्रौ. २.१.३५) इति । 

एवं च इष्टिपूर्वाधानेऽजस्रनिवृत्तिः सोमपूर्वाधाने केषाञ्चिन्मते विकल्पः अन्येषां मतेऽजस्रधारणाभावः । याज्ञिकानामाचारः शास्त्रसम्मतः पूर्वमेवोपवर्णितः । तथा धूर्तस्वामी -- 

सोमादुत्तरकालं प्रवृत्तेऽग्निहोत्रे द्वादशाहादीनि न क्रियेरन् (पुट सं.  ५९०) इति । 

प्रकृतमनुसरामः ॥

शुक्लपक्षे द्वितीयायां तृतीयायां वा नक्षत्राधाने अमावास्यायां वाऽऽधाने होमपूर्वकेऽजस्रधारणं नित्यं भवति द्वादशदिनकालस्य विद्यमानत्वात् पूर्णिमायाः प्राक् । तथा च धूर्तस्वामिनः -- 

ते (अजस्रधारणादयः) तु अमावास्याधान एव भवन्ति वचनात् । नक्षत्राधाने चैवं भवति श्रुत्यन्तरात् अर्वाग्यत्राजस्राः सम्भवन्ति पौर्णमास्याः । (आप.श्रौ. ५.२४.९; पुट सं.  ५९१) इति ।

अत्रैव रामाण्डारः -- 

 नक्षत्राधाने तु पौर्णमास्याः प्रागजस्रकालसम्भवेऽजस्रधारणादीनि (तस्मिन्नेव पुटे)

आण्डपिल्लायामप्येवमेव --

दर्शार्दौ सर्वदाऽजस्राः नक्षत्रे यदि सम्भवे इति (मुद्रितकोशाभावात् पुटसंख्या न दत्ता) अतः अमावास्याधानेजस्रधारणं नित्यम् ॥

अन्यच्च । नक्षत्राधानेऽपि द्वादशाहमध्ये पूर्णिमागमेपि अजस्रेष्वेव सारस्वतहोमारम्भणीये चतुर्होतृहोमः, पूर्णमासयागाश्च कार्यः । ततःपरं द्वादशाहे समाप्तेजस्रोत्सर्गः । अयं पक्ष: केषाञ्चित् पक्ष: इति आण्डपिल्लायां वर्तते । अतः नक्षत्राधानेऽप्यजस्रधारणं पूर्णिमागमेपि (अजस्रमध्ये) कर्तव्यमेवेति पक्षान्तरमपि पश्यामः । याज्ञिकाः इमं पक्षं नानुसरन्ति । तत्र च कारणं विकल्पप्रतिभानमेव "केचित् मन्यन्ते" इति

४. निगमनम्

एवञ्चामायां होमपूर्वाधानेऽजस्रधारणस्य नित्यत्वमेवाकरणे मानं नास्ति । प्रत्युताधानाङ्गलोपो वा पुरुषार्थलोपो वा नूनं भवत्येव, अजस्रधारणव्रतजन्यस्यापूर्वस्यानुत्पन्नत्वात् । अमावास्याधानविषये धूर्तस्वामिनः एवं वदन्ति --

अमावास्यायामादधानस्य कर्तुरेतद्व्रतं यथाजस्रताहतधारणमप्रवासः स्वयं होमः दानकर्मणां (प्रथमदोहनप्रयुक्तगोः दानं) क्रमेण प्रयोगः । (पुट सं. ५८९) इति
एवञ्चामायां होमपूर्वकाधानेऽजस्रधारणव्रतत्यागः यजमानस्य व्रतलोपदायक इत्यत्र न संशयः ।

स्थिरीकरणभागः

५. शङ्कोत्थापनं समाधिश्च

स्यादेतत् । आधानन्तावदेकरूपतया सर्वेषां भाव्यम् । आरम्भकालापेक्षयाऽजस्रधारणाधारणे कथं स्यातामिति । उच्यते । पुरोडाशः चरुः इत्युभयमप्योषधिद्रव्यकहविः। समानेऽप्योषधिधर्मत्वे पुरोडाशसंस्काराः सर्वे चरौ न सम्भवन्ति । यथा पुरोडाशे पेषणं भवति पिष्टसंपादनाय । चरौ पेषणं नास्ति तन्डुलानामेवसद्भावः । एवं कपाले पुरोडाशस्योपरि चाङ्गाराध्यूहनं, भस्माध्यूहनं, क्रमेण पुरोडाशे भवति चरौ तयोरसम्भवः । एवं प्रातर्दोहविकारेऽपि पशुयागे वत्सापाकरणदोहनमन्त्राणामर्थलोपान्निवृत्तिः । एवं प्रकृतेऽपि इष्टिपूर्वे सोमपूर्वे च द्वादशाहकालाभावादजस्र-धारणव्रतनिवृत्तिः । सोमे विकल्पः प्रागेव प्रपञ्चितः । अत आधानक्रियासाम्येऽपि कालापेक्षमजस्रधारणाधारणे भवतः । अतश्चामावास्याधाने, आगामि पुर्णिमायाःप्राक् द्वादशाहपरिमितकालस्य विद्यमानत्वादजस्राः नियमेन भवन्ति । धारणाधारणवैषम्यन्त्वर्थरूपकालसापेक्ष्यं ज्ञेयम्

पवमानहविषां द्वादशाहे द्व्यहे.........संवत्सरे वा (आप.श्रौ. ५.२१.२) 

इति कालविकल्पस्योक्तत्वात् सर्वत्राजस्रधारणस्य विकल्पः इति न वक्तव्यम् । कालभेदेन भिन्नभिन्नकालेषु आग्नेयस्य पवमानहविषां निर्वापपक्षेऽजस्राभावः साध्यः । परन्तु सहनिर्वापपक्षे अजस्राभावः नैव भवति । वस्तुतस्तु सर्वेषां हविषां समानतन्त्रतया एकदा एकस्यामिष्टौ निर्वापम् आश्वलायनः विदधाति --

आद्या वा (आश्व.श्रौ. २.१.३२) इति ।

(आपस्तम्बेन सर्वेषां हविषां समानततन्त्रतया यागः नैव विहितः इत्यपि बोध्यम् ।) अयमेव पक्षः अधुना याज्ञिकैः आश्रीयते  सर्वत्र । एवमजस्राभावनिमित्तं भिन्नकालनिर्वापः । भिन्नकालनिर्वापस्य निमित्तस्यापाये अजस्रधारणाभाव-नैमित्तिकस्याप्यपायः । एवं सद्यः सहनिर्वापपक्षे अजस्रधारणं नित्यं पूर्वोक्तस्थले । अयमपरो हेतुः अजस्रधारणकर्तव्यत्वे ज्ञेयः ॥


६. अजस्रधारणमग्नीनामपि परम्परयाऽपूर्वसम्पादकत्वकथनम्

नन्वेवमप्यजस्रधारणव्रतमाधानस्याङ्गं तस्य लोपेऽङ्गिनः आधानस्य वैकल्यं न स्यादिति चेत् सत्यम् । "आधानमपवृज्य" इति सूत्रकारप्रयोगात् (पुर्णमासाधाने) अजस्रं विनाऽप्याधानं समाप्येति वदता सूत्रकारेणाजस्रधारणस्याङ्गाभावः सूचित इति प्रतिभाति । तथाऽप्यजस्रव्रतधारणस्य लोपे यजमानस्य पुरुषार्थसम्पत्तेरभावात्  न्यूनतैवाधानस्य । कथमिति चेत् वक्ष्यते । आधानप्रभृति यजमान एवाग्नयः --

यजमानो वा अग्नेर्योनिः (तै.सं. ३.४.१०.५), अहं त्वदस्मि (तै.ब्रा. १.२.१.२०)

इत्यादि श्रुतिभ्यः अधानादारभ्य यजमान एवाग्नय इति स्फुटम् ।

एवञ्चाजस्रधारणव्रतानुष्ठानेन यजमानसंस्कारेण, यजमानेऽदृष्टरूपेण विद्यमानानां त्रयाणां वैतानिकानामग्नीनामापि संस्करः भवत्येव । अत एव अजस्रधारणव्रतं पुरुषार्थतया भाष्यकारेणोपवर्णितम् । अतः अमावास्याधानकर्तुः कालसद्भावाजस्राकरणे पुरुषार्थलोपः भवत्येव । अग्नीनां च व्रतजन्यापूर्वत्वं न स्यात् । अन्यकालेषु कृताधानानां द्वारलोपादजस्राकरणेऽपि न क्षतिः । तेषां विषये शास्त्रसम्मतः अजस्रत्यागः । 


 ७. व्रातपतीनप्रायश्चित्तिः

अपि च। अजस्रव्रतधारणं यजमानस्यैव पुरुषार्थतया वर्ण्यते, व्रतलोपस्य सद्भावात्। तत्प्रतीकारतया व्रातपत्यनुष्ठीयते चेत् अजस्राकरणदोषनिवृत्तिः इति यदि उ
च्येत, तत्रोच्यते। न । व्रातपतीविधायकब्राह्मणे सायणाचार्याः एवं वदन्ति --

अग्नये व्रतपतये.......वत्यो भवति (तै.सं. २.२.२) इति । अव्रत्यं यागव्रतविरोधि, अनृतवादादिकम् । सोऽग्निः एव एनमव्रत्यचारिणं व्रतं प्रापयति। ततः उत्तरेषु याग व्रतेषु योग्योभवति इति ।

अत्र आण्डपिल्लाऽप्येवं जागर्ति --

एतेषां (आहिताग्निव्रतानां) एकस्मिन्नक्रियमाणे व्रातपतीष्टिः कर्तव्या, इति ।

तत्र सूत्राणि पश्यामः --

अनन्तरमाधानादाहिताग्निव्रतानि । नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सूर्योढमतिथिं वसत्यै नापरुन्धीत । नर्बीसपक्वस्याश्नीयात् । क्लिन्नं दारु नादद्ध्यात् । अन्तर्नाव्यपां नाश्नीयात् । स्वकृत इरिणे नावस्येत् । पुण्यः स्यात् ।...... (आप.श्रौ. ५.२५.२......१९)


इत्यादिकं यावज्जीवानुष्ठेयमाहिताग्निव्रतमुक्तम्

अत्रोक्तानां व्रतानामतिक्रमेऽन्यतमस्यापि, व्रतलोपः अव्रत्यः । अत एतादृशस्थलेषु व्रतलोपः भवति । ततःपरं व्रातपती क्रियते । व्रतलोपस्य प्रायश्चित्तं कृतं भवति । ततःपरं क्रियमाणानुष्ठानयोग्यो भवतीति सायणभाष्यार्थः ।


परन्त्वजस्रधारणव्रतमाहिताग्निव्रतजातस्य कथनात् प्रागेवोक्तं सूत्रकारैः । अतोऽजस्रधारणव्रतलोपसमीकरणसामर्थ्यं व्रातपत्याः न सम्भवति । "सर्वस्य वा एषा प्रायश्चित्तिः" इत्यश्वमेधे श्रूयते ।  तथा व्रातपती सर्वव्रतलोपप्रायश्चित्तिः न भवति । तथा सति स्मार्तकर्मलोपानामपि स्मृत्युक्तप्रायश्चित्ते कर्तव्ये, तत्रापि व्रातपती प्रसज्येत ।  तथा न सम्भवति । आहिताग्निव्रतलोपप्रायश्चित्तिः व्रातपती । ततः पूर्वं प्रवृत्तस्याजस्रधारणव्रतस्य लोपे व्रातपती न प्रवर्तते । आहिताग्निव्रतानां लोपे खलु व्रातपती विहिता । तच्च पूर्वमेवोक्तम् । 

८. अजस्राकरणे लौकित्वसम्भवोऽग्नीनां, प्रथमारम्भाधिकाराभावश्च

अस्तु नाम । यजमानस्य व्रतलोपः यद्यङ्गीक्रियते अजस्रधारणव्रतस्याकरणे, तर्हि यजमानः अव्रत्यः इत्यनिच्छताप्यजानताप्यङ्गीकृतं भवति । तथा सत्यव्रत्येन (व्रतलोपयुक्तेन) कृतारम्भाः अग्निहोत्रदर्शपूर्णमासपशुबन्धपिण्डपितृयज्ञाः अनारब्धा एव स्युः ।  यजमानस्याव्रत्यदोषस्याङ्गीकृतत्वात्, प्रथमारम्भेषु कथमधिकृतो भवेत् । सुधीभिः विवेचनीयम् । देशकालकतॄणां शुद्धिः प्रथमारम्भस्य धर्मशास्त्रे प्रपञ्चितं द्रष्टव्यम् । अतः अव्रत्येनाजस्रधारणहीनेन कृतारम्भाः साध्वारम्भाः न स्युः । व्रतलोपप्रायश्चित्तकरणे प्रवृत्तिः भवद्भिरेव प्रकटीकृतत्वात् । वस्तुतस्तु सा प्रायश्चित्तिः व्रातपती न सम्भवत्यजस्रधारणव्रतलोपस्येति पूर्वमेव प्रतिपादितम् । अतः व्रतलोपमात्राङ्गीकारेऽपि प्रथमारम्भाः वत्सरसाध्याः शुद्धपदवीं नारोहन्ति । एषोऽपरिहार्यो दोषः

अन्यच्च । अमावास्यायां होमपूर्वाधानेऽजस्रधारणं नित्यमिति विस्तरेण प्रपञ्चितम् । तथाकरणे आश्वपदिकेऽग्निहोत्रारम्भार्थं दशहोतृहोमः अध्वर्युणा कार्यः । द्वादशरात्रं यजमानः स्वयमग्निहोत्रं जुहोति । त्रयोदशदिने प्रातर्होमेऽनुष्ठिते आहवनीयान्वाहार्यपचनयोस्त्यागः । त्रयोदशदिने यः सायमग्निहोत्रं जुहोति तस्मै प्रथमाग्निहोत्रकाले या गौः दुग्धा सा यजमानेन देया । एतत् सर्वं रुद्रदत्तवृत्तौ धूर्तस्वमिभाष्ये रामाण्डाराणां वाक्येषु स्पष्टं प्रदिपादितम् । एवं स्तिथे यद्यजस्रधारणं न क्रियते तर्ह्यविधिना कृतमकृतमिति न्यायेन कृतान्यपि कर्माण्यकृतान्येव । दशहोतृहोमार्थं गार्हपत्यादग्नेरुद्धरणं, प्रत्यहं सयम्प्रातरग्निहोत्रहोमार्थमग्नेरुद्धरणञ्च, यदि क्रियते तर्हि उद्धरणस्याप्राप्तत्वादचोदितोद्धर
णं, गार्हपत्याग्नेः लौकिकत्वस्म्पादकं भवति । तथा च बौधायनः --

अचोदितेन पाकेन कृतेनोद्धरणेन वा ।
लौकिकोऽग्निः स विज्ञेयः पुनराधानमर्हति ॥
-- (वैद्यनाथदीक्षितीये वर्णाश्रमधर्मकाण्डे पुट सं ८२, कुम्भकोणमुद्रणम्) ।

अस्यायमर्थः । चोदनां विना यः कोऽपि पाकविशेषः गार्हपत्ये कृतश्चेत् गार्हपत्यः लौकिको भवति   एवं चोदनां विना गार्हपत्यादुद्धरणे कृते गार्हपत्याग्निः लौकिकस्संपद्यते इदमेव वाक्यं त्रिकण्डमण्डनटीकायामपि वर्तते । अजस्रधारणस्यामावास्याधाने नित्यत्वात् पुनः पुनः अग्निप्रणयनं गार्हपत्यादुद्धरणं न सम्भवति   तत्र धूर्तस्वामिनः --

आधानात् द्वादशाहमजस्राः । नाजस्रेषु धृष्ट्यादानाभिमन्त्रणबोधनादीनि विहरणार्थत्वात्(पुट सं ५७७) इति । 

अस्यायमर्थः ।

अजस्रधारणतयाऽऽयतनेष्वग्नीनां सद्भावात् प्रणयनार्थाः, धृष्टिरसि, सुगार्हपत्यो विदहन्, उद्बुध्यस्वेत्यादीनां विश्वदानीपर्यन्तानां निवृत्तिः ।  "विश्वदानीमाभरन्त" इत्येत्तु भवत्येव । पुनः पुनः प्रणयनेनाचोदितेन मार्गेणोद्धरणं कृतं, अजस्रधारणकर्तव्यदिनेषु । दशहोत्रर्थं कृतमुद्धरणञ्च अचोदितं केवलोद्धरणमेवाश्वपदिके होतव्यत्वात् । तच्च पूर्वमेव विमृष्टम् । अग्निहोत्रार्थमुद्धरणमपि चोदनाविहीनोद्धरणमेव ।  एवञ्च विहरणमन्त्राः अप्राप्ताः, परन्तु ते पुनः पुनः प्रयुक्ताः अग्निहोत्रकाले । तथा च विधिहीनाः प्रणयनपूर्वकहोमाः कृताः, अचोदितोद्धरणायैव कल्पन्ते । अजस्रेषु विहरणमन्त्राणामभावः पूर्वमेवोक्तः । अजस्रधारणाकरणमेको दोषः । चोदनां विना पुनः पुनः प्रणयनमपीत्यपरो दोषः । तेन च गार्हपत्यः लौकिकः सम्पन्नो भवति ॥
 

निरुद्धगतिकतया यदि सहसोच्येत, भाष्यकारादीनां वाक्यमप्रमाणमिति, तर्हि न वयं प्रतिवक्तुं शक्ताः । स्मृतिकारः हारीतः अत्र प्रतिवदति --

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ -- (वैद्यनाथदीक्षितीये वर्णाश्रमधर्मकाण्डे पुट सं. ५, कुम्भकोणमुद्रणम्) ।

इति एवं चामावास्यायां कृतं होमपूर्वाधानमजस्रधारव्रतम् विनाग्नीनां वैतानिकत्वं न सम्पादयति पूर्वोक्तरीत्या लौकिका एव स्युः आस्तिकाः सारासारविवेचकाः सुधीमणयः अत्र सारं पश्येयुरिति दृढमतयः वयं अस्मदाचार्यान् स्मारं स्मारं, नत्वा विरमामः

कृष्णेन सुब्बुपूर्वेण यज्वना साग्निकक्रतुं ।
विमर्शोऽजस्रविषये कृतस्तातप्रसादतः ॥ 


॥ इति शम् ॥


                                                                                                                                                                        

No comments:

Post a Comment