Wednesday, July 1, 2015

यागपरिचयः

तत्राग्निचयनस्य संक्षिप्तं विवरणम् ।
एन्. सोमसुन्दरदीक्षितः

Yāgaparicayaḥ - Agnicayana 
N. Somasundara Dikshitar   

॥ श्रीगुरुभ्यो नमः ॥

शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ।
रिपुगर्भस्य यो गर्भः स नो विष्णुः प्रसीदतु ॥

अग्निचयनं नाम तदर्थं विविधाभिराकृतिभिर्निर्मिताभिरिष्टकाभिश्चितैः पञ्चभिः प्रस्तारैरुपेतमेकं धिष्ण्यम् । तस्योपर्यग्निं प्रणीय यागाः क्रियन्ते । तच्च चयनं विविधैराकारैः कर्तव्यत्वेन वेदेषूपदिश्यते । तत्र चान्यतमं गरुडचयनं नाम । तच्च "वयसां वा एष प्रतिमया चीयते" (तै.सं. 5.5.3.2)  इति पक्ष्याकारेण चीयते । तत्रापि "श्येनचितं चिन्वीत सुवर्गकामः" (तै.सं. 5.4.11.1; Cf. काठ.सं. 21.4)  इति स्वर्गकामेन श्येनाकारेण चेतव्यम् ।   यतः "श्येनो वै वयसां प्रतिष्ठः" (तै.सं. 5.4.11.1) इति श्येनस्यैव पक्षिषु सुदूरं पतने शक्तिरस्ति अतश्च   श्येनचित् "श्येन एव भूत्वा स्वर्गं लोकं पतति" (तै.सं. 5.4.11.1) इति श्येन इव सुदूरपतनशक्तिसंपन्नः सुवर्गं लोकं पतति, इति उपदिश्यते वेदे ।

तच्च चयनं पञ्चभिः प्रस्तारैर्युक्तमित्युक्तं पूर्वम् । ते च प्रस्ताराः "पञ्च वा एतेऽग्नयो यच्चितयः" (तै.सं. 5.5.9.1-2; Cf. मा.श.ब्रा. 6.2.1.16) इति, उदधिरेव नाम प्रथमो दुध्रो द्वितीयो गह्यस्त्रितीयः किँशिलश्चतुर्थो वन्यः पञ्चमः" (तै.सं. 5.5.9.1) इति,  (१) उदधिः (२) दुध्रः (३) गह्यः (४) किँशिलः (5) इति तेषां नाम चोपदिष्टम् । ताश्च पञ्च चितयः पञ्च प्रस्तारा इति व्यवह्रीयन्ते तेष्वेकैकोऽपि प्रस्तारो द्विशत्येष्टकाभिर्निर्मीयते । 

तथा पञ्चसु प्रस्तारेषु मिलित्वा सहस्रमिष्टका भवन्ति । तत्र "साहस्रं चिन्वीत प्रथमं चिन्वानः" (तै.सं. 5.6.8.2) इति प्रथमस्य चयनस्येष्टकानां संख्या, "जानुदघ्नं चिन्वीत प्रथमं चिन्वानः" (तै.सं. 5.6.8.4) इति तस्योत्सेधप्रमाणं चोपदिश्यते । स चोत्सेधः प्रायशः त्रिंशदंगुलो भवति । तथा चेष्टकानामुत्सेधः षडंगुलः संपद्यते । ते चा प्रस्ताराः (१) पक्षाग्रं (२) पक्षः (३) पक्षमध्यं (४) षोडशी (५) अर्धेष्टका (६) पादेष्टका इति विभिन्ननामभिर्विभिन्नाकृतिभिश्चेष्टकाभिस्तत्तन्मन्त्रेणोपधीयन्ते । तत्र प्रथमत्रितीयपञ्चमेषु प्रस्तारेषु (१) पक्षाग्रेष्टका (२) षोडशी (३) पक्षेष्टका अशीतिः (३) पक्षमध्येष्टका अष्टौ (४) षोशीषष्टकाः चत्वारिंशत् (५) पादेष्टकाः षट्पञ्चाशत् इति द्विशतं द्विशतमिष्टका भवन्ति । 

द्वितीयचतुर्थयोस्तु (१) पक्षेष्टका द्वादशोत्तरं शतं (२) षोडशीष्टकाः षट्त्रिंशत् (३) अर्धेष्टकाः द्विपञ्चाशत् -- इति प्रत्येकं द्विशतमिष्टका भवन्ति । तथा च पञ्चसु प्रस्तारेषु मिलित्वा सहस्रमिष्टका भवन्ति । एवं सहस्रेऽपीष्टकासुपहितासु पञ्चप्रस्तारं तदेव धिष्ण्यमग्निरूपं संपद्यते । ततश्च यावद्यज्ञः समाप्यते तवदृत्विग्भ्योऽन्ये तमाक्रमेयुः ऋत्विजोऽपि कर्मकाल एव तत्सामारोढुमर्हन्ति । "अप वा एतस्मात्प्राणाः क्रामन्ति योऽग्निचिन्वन्नधिक्रामति" (तै.सं. 5.5.9.3) इति चितावुपधीयमानायामेव यस्तामाक्रामति, तस्य प्राणास्तस्मादपक्रामन्ति । ततश्च "वाङ्म आसन्नसो प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिँसीः" (तै.सं. 5.5.9.2) इति मन्त्रं जपित्वा तस्मिन्नारोहेत्, इति वेदः,  "वाङ्म आसन्निति सर्वत्रारोहन् प्रत्यवरोहंश्च जपति" (आप.श्रौ. 16.21.14) इति सूत्रं चोपदिशति । तथा चास्य पञ्चप्रस्तारस्य चयनस्य प्रथमं चयनमिति नाम एवं प्रागुक्तया दिशा द्विषाहस्रृयेष्टकाभिश्चीयमानस्य द्विषाहस्रचयनम्, अथवा द्वितीयं चयनमिति नाम । "द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः" (तै.सं. 5.6.8.2) इतीष्टकानामियत्तां, "नाभिदघ्नं चिन्वीत द्वितीयं चिन्वानः" (तै.सं. 5.6.8.4) इत्युत्सेधस्य परिमाणं नाभिदघ्नमिति चोपदिशति वेदः । एवं तृतीयं चयनं चिन्वानस्त्रिषाहस्रं ग्रीवदघ्नं च चिन्वीत । तत्र "त्रिषाहस्रं चिन्वीत तृतीयं चिन्वानः" (तै.सं. 5.6.8.2) इतीष्टकानां संख्यां, "ग्रीवदघ्नम् चिन्वीत तृतीयं चिन्वानः" (तै.सं. 5.6.8.4) इत्युत्सेधस्य परिमाणं ग्रीवापर्यन्तं चाह ।  प्रथमेन च चयनेनेमं, द्वितीयेनान्तरिक्षं, तृतीयेन  सुवर्गं च लोकमभिजयतीत्युक्तम् । एवमन्यान्यपि पञ्च फलानि वेद एवोपदिश्यन्ते । तानि यथा --

१. कस्मै कमग्निश्चीयत इत्याहुरग्निवानसानीति वा अग्निश्चीयतेऽग्निवानेव भवति" (तै.सं. 5.5.2.1) इति । कस्मै कामायायमग्निश्चीयत इति पुरा ब्रह्मवादिनो विचार्य, शास्त्रीयाग्नियुक्तो भूयासमिति कामेनाग्निश्चीयत इति निरणैषु । तेन चायं यजमान उत्तरक्रतूपयुक्ताग्निमानेव भवति, इति प्रथमं फलम् ॥

२. कस्मै कमग्निश्चीयत इत्याहुर्देवा मा वेदन्निति वा अग्निश्चीयते विदुरेनं देवाः" (तै.सं. 5.5.2.2) इति । अयं यजमानः सम्यगेव यागमन्वतिष्टत् इति स्वर्गस्था देवा माञ्जानीयुरीति कामेनाग्निश्चीयते । तेन देवाश्चैनं तथा विदन्ति, इति द्वितीयं फलम्

३. "कस्मै कमग्निश्चीयत इत्याहुर्गृह्यसानीति वा अग्निश्चीयते गृह्येव भवति" (तै.सं. 5.5.2.2) इति । शास्त्रोक्तानि कर्माण्यनुष्ठातुं समर्थः कश्चन गृही भूयसमिति कामेन चीयमनत्वात्तादृशः कश्चन गृहस्थो भवति, इति तृतीयं फलम् ॥
 

४. "कस्मै कमग्निश्चीयत इत्याहुः पशुमानसानीति वा अग्निश्चीयते पशुमानेव भवति" (तै.सं. 5.5.2.2) इति । पशुभिरनेकैः समृद्धो भूयासमिति कामेनाग्निश्चीयमानत्वाद्बहुभिः पशुभिः समृद्धो भवति,  [इति चतुर्थं फलम् ]

५. 
"कस्मै कमग्निश्चीयत इत्याहुः सप्त मा पुरुषा उपजीवानिति वा अग्निश्चीयते त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्तमेवैनममुष्मिंल्लोक उपजीवन्ति" (तै.सं. 5.5.2.3) इति पिता, पितामहः, प्रपितामह इति पूर्वे त्रयः, पुत्रः, पौत्रः, नप्तेति परे त्रयः, आत्मा च सप्तम इति सप्त पुरुषा उपजीवन्त्विति कामेनाग्नेश्चीयमानत्वात् पूर्वोक्ताः सप्तापि पुरुषा एनममुष्मिन् लोक उपजीवन्ति, इति पञ्चमं फलम्

न चैतावन्मात्रं -- अपि तु -- "अग्निर्वै देवानामभिषिक्तोऽग्निचिन्मनुष्याणाम्" (तै.सं. 5.4.9.2) -- यथा देवेष्वग्निरभिषिक्तः एवं मनुष्येष्वग्निचिदिति स गरिष्ठः स्तूयते । तेन च चयनादूर्ध्वं संवत्सरं यावदग्निचिदप्याचार्यं श्वशुरमन्यं कमपि पुरुषं प्रत्युत्थानादिना न समर्हयेदिति -- "संवत्सरं न कञ्चन प्रत्यवरोहेत्" (तै.सं. 5.5.4.2) इति श्रुतिराह ।

एवं सहस्रेणेष्काभिश्चितं पञ्चप्रस्तारात्मकमिदं धिष्ण्यमाकाशे डयमानो गरुड इव प्रतिभायात् । अत एवेदं गरुडचयनमिति व्यपदिश्यते, "सुपर्णोऽसि गरुत्मान्......" (तै.सं. 4.1.10) इत्यादिना मन्त्रेणोपस्थीयते च । यदा च सहस्रतमीष्टकोपहिता, तदैवेयं चितिरग्निः संपद्यत इति पूर्वमुक्तम् । तदा च तस्यां चरमायमिष्टकायामर्कपर्णेनाजाक्षीरेण शतरुद्रियमन्त्रेण होमः क्रियते । यथा हि लोके जातः शिशुः स्तन्यं पातुमभिलषति, एवमयमग्निरप्युत्पन्नमात्र एव भागधेयमभिलषति । तदर्थमेवायं होमः पूर्वोक्तोऽनुष्ठीयते । ततस्तस्मिन्नग्निं प्रणीय चमकानुवकैर्वसोर्धारा चाज्येन हूयते । तस्य चाग्नेर्घोरा शिवा चेति द्वे तनू विद्येते । तयोश्चैकां घोरां तनुं शतरुद्रियहोमेन शमयित्वा, शिवां नामान्यां तनुं च  वसोर्धारया प्रीयति "रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोराऽन्या शिवाऽन्या यच्छतरुद्रीयं जुहोति यैवाऽस्य घोरा तनूस्तां तेन शमयति यद्वसोर्धारां जुहोति यैवास्य शिवा तनूस्तां तेन प्रीणाति" (तै.सं. 5.7.3.3) इति श्रूयते इदं चाग्निचयनमधिकृत्य विस्तरोतोऽन्यदा विवरीतुमभिलषाम इति सांप्रतं संग्रहेण प्रत्यपीपदाम -- इति शिवम्
                                                   

त्वदीयं वस्तु यज्ञेश तुभ्यमेव समर्पये ।                                                                   
तेन त्वद्यजने नित्यं रतिर्मेस्त्वनपायिनी ॥


This article in booklet form was published by the author as No.3.
Year of publication is not mentioned.
Authorities quoted in the article has been documented by me.
Since the paper has become too brittle, I thought it fit to re-type and preserve it for posterity.

Biographical sketch of the author included in this Blog.
Tamil translation in the next post - 12

No comments:

Post a Comment