Tuesday, June 30, 2015

आधानेऽजस्रनित्यत्वसमर्थनम्

अ. सी. सुब्बुकृष्णमहाग्निचित्

Ādhāne-ajasra-nityatva-samarthanam 
A. S. Subbukrishna Mahāgnicit (Somayājī) 

यज्ञो रक्षतु धार्मिकान्

अग्न्याधाने बुधमुनिवरैः कल्पिते स्पष्टमार्गे ।
नित्यं धार्या दशदिनमितं रात्रियुग्मेन साकम् ॥
शोचिष्केशाः श्रुतमपि विधिं शुद्धधीप्रापणाय ।
व्याकुर्वेऽद्धा सितमतिमतां प्रीतये नित्यमेव ॥

विषयानुक्रमः ।

अर्थानुशासनभागः                                             स्थिरीकरणभागः

१. आमुखम्                                        ५. शङ्कोत्थापनं समाधिश्च 
२. सूत्रकारमतिः                                  ६. अजस्रधारणमग्नीनामपि परम्परयाऽपूर्वसम्पादकत्वकथनम्
३. अजस्रव्रतनित्यता                            ७. व्रातपतीनप्रायश्चित्तिः
४. निगमनम्                                       ८. अजस्राकरणे लौकित्वसंभवोऽग्नीनां, प्रथमारम्भाधिकाराभावश्च 

अर्थानुशासनभागः

१. आमुखम्

इह खलु अधीतसाङ्गवेदकेन स्वस्वकल्पसूत्रोक्तमग्न्याधानं क्रियते । अग्निहोत्रादिकर्मजातं  वेदविहितं तेष्वग्न्याधानसिद्धेष्वग्निष्वनुष्ठीयते । तत्रापस्तम्बमहामुनिना कल्पकारेणोक्तः यः प्रकारः तेन तैत्तिरीयकाः वयमाधानादिकं कुर्मः । स्फीतालोकमध्यवर्ती घटः प्रतिपित्साविषयो न भवतीति भामतीकाराः । एवमेवाग्न्याधानप्रक्रियाऽपि संशयविदूरा । तथाप्यधिकारिभेदेन तत्रापि संशयो जायते । तत्रेदं विमर्शात्मकं किञ्चिदिव वक्तुकामा वयं प्रपन्नाः । सारग्राहिणो विद्वांसः असारं परित्यज्य मुदं प्रप्नुयुरीति दृढनिश्चयाः । अस्मिन् विषये प्रयत्यते तदर्थमिति पुनर्विज्ञापयामि ॥

२. सूत्रकारमतिः

आपस्तम्बेनाधानयोग्यनक्षत्राण्युक्तानि योग्यकालत्वेन पर्वद्वयमप्युक्तम् । अत उक्तनक्षत्रे क्रियमाणं नक्षत्राधानमिति पर्वणि क्रियमाणं पर्वाधानमिति च याज्ञिकसमाख्या । तत्रापि होमपूर्वाधानं प्रथमत उक्त्वा ततः परं सोमपूर्वाधानमिष्टिपूर्वाधानं च स्वसूत्रैः सूचयति कल्पसूत्रकारः । विस्तारभयात्तेषां सूचनमिह न क्रियते । एवं सूत्राणां  स्थितिः । आपस्तम्बसूत्राणां धूर्तस्वामिनः भाष्यं, तस्य रामाण्डाराणां वृत्तिः, रुद्रदत्तवृत्तिः, आण्डपिल्लाप्रयोगपद्धतिः इति चतुष्टयं प्राधान्येन याज्ञिकैः सर्वत्राद्रियते । तत्र नक्षत्राधानं शुक्लपक्षे भवति । तच्च प्रायेण होमपूर्वकाधानमेव । केचिदापूर्यमाणस्य पक्षस्य पर्वतुल्यत्वं मन्यमनाः सोमपूर्वाधानमप्याचरन्ति । पर्वणि क्रियमाणमाधानमपि होमपुर्वं वा सोमपूर्वं वा भवति । इष्टिपूर्वाधानं तु पूर्णिमायामेव  प्रवर्तते तथा चोदितत्वात्सूत्रकारेण । पुर्वोक्तविधिबलाद्दर्शे वा नक्षत्रे वा होमपूर्वाधानम् ॥

३. अजस्रव्रतनित्यता

तत्र सर्वत्राधानानन्तरं द्वादशाहाजस्रधारणं तत्प्रयुक्तव्रतं च सूत्रकारेण प्रथमतः विहितं -- 

द्वादशाहमजस्रेष्वग्निषु यजमानः स्वयमग्निहोत्रं जुहुयात् अप्रवसन्नहतं वसो बिभर्ति । (आप.श्रौ. ५.२२.१३) इति । 

अत्र चतुष्टयं विहितम् -- अग्नीनामजस्रधारणं, स्वयं होमः, अप्रवासः, अहतवासोधारणमिति । 

तत्रेष्टिपूर्वाधाने पूर्णिमायामाधानस्यकृतत्वात् परस्मिन्दिने पूर्णिमायाः यागस्य कर्तव्यत्वात् इष्ट्यनारम्भे मनाभावादिष्टिपूर्वमेवाधानस्य कृतत्वादजस्रधारणादि न सम्भवति कालाभावात् । एतच्च सूत्रकारेणैव विहितं -- 

पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वारम्भणीयमाधानमपवृज्य । (आप.श्रौ. ५.२४.९), श्वोभूते पौर्णमासेन यजेत । (आप.श्रौ. ५.२५.२) 

इति सुत्रद्वयम् । अत्र "आधानमपवृज्य" इति प्रयुक्तम् । अतः अजस्रधारणनिवृत्तिः । अजस्रान्त एवाधानसमाप्तिरिति सूच्यते । "आधानमपवृज्य" इति वर्तमानत्वात् । एषेष्टिपूर्वाधाने स्थितिः । 

सोमपूर्वाधाने आधानोत्तरकालं सोमस्यैव प्रवृत्तेः अजस्राणां विकल्पः । उदवसानीयानन्तरं प्रथमाग्निहोत्रप्रभृति सोमयागानुष्ठानगतानि दिनानि संख्याय अवशिष्टदिनैः यावद्भिः द्वादशसंख्या पूर्यते तावन्त्यहान्यजस्रधारणं तत्प्रयुक्तव्रतञ्च भवति । कल्पान्तरे सोमपुर्वाधानेऽजस्रधारणाभावं पश्यामः (भारद्वाजसूत्रे) । अतः सोमपूर्वाधानेऽजस्रविकल्पः । याज्ञिकास्तु सोमपूर्वाधानेऽजस्रधारणं न कुर्वन्ति लाघवात् कल्पान्तरसम्मतत्वाच्च ॥  

आश्वलायनसूत्रवृत्तिकृत् नारायणोऽप्येवं वदति -- 

इष्टिपूर्वेऽजस्रधारणं नास्ति..............तथा सोमपूर्वेऽपि नास्ति । (आश्व.श्रौ. २.१.३५) इति । 

एवं च इष्टिपूर्वाधानेऽजस्रनिवृत्तिः सोमपूर्वाधाने केषाञ्चिन्मते विकल्पः अन्येषां मतेऽजस्रधारणाभावः । याज्ञिकानामाचारः शास्त्रसम्मतः पूर्वमेवोपवर्णितः । तथा धूर्तस्वामी -- 

सोमादुत्तरकालं प्रवृत्तेऽग्निहोत्रे द्वादशाहादीनि न क्रियेरन् । (पुट सं.  ५९०) इति । 

प्रकृतमनुसरामः ॥

शुक्लपक्षे द्वितीयायां तृतीयायां वा नक्षत्राधाने अमावास्यायां वाऽऽधाने होमपूर्वकेऽजस्रधारणं नित्यं भवति द्वादशदिनकालस्य विद्यमानत्वात् पूर्णिमायाः प्राक् । तथा च धूर्तस्वामिनः -- 

ते (अजस्रधारणादयः) तु अमावास्याधान एव भवन्ति वचनात् । नक्षत्राधाने चैवं भवति श्रुत्यन्तरात् । अर्वाग्यत्राजस्राः सम्भवन्ति पौर्णमास्याः । (आप.श्रौ. ५.२४.९; पुट सं.  ५९१) इति ।

अत्रैव रामाण्डारः -- 

 नक्षत्राधाने तु पौर्णमास्याः प्रागजस्रकालसम्भवेऽजस्रधारणादीनि । (तस्मिन्नेव पुटे)

आण्डपिल्लायामप्येवमेव --

दर्शार्दौ सर्वदाऽजस्राः नक्षत्रे यदि सम्भवे इति (मुद्रितकोशाभावात् पुटसंख्या न दत्ता) । अतः अमावास्याधानेऽजस्रधारणं नित्यम् ॥

अन्यच्च । नक्षत्राधानेऽपि द्वादशाहमध्ये पूर्णिमागमेऽपि अजस्रेष्वेव सारस्वतहोमारम्भणीये चतुर्होतृहोमः, पूर्णमासयागाश्च कार्यः । ततःपरं द्वादशाहे समाप्तेऽजस्रोत्सर्गः । अयं पक्ष: केषाञ्चित् पक्ष: इति आण्डपिल्लायां वर्तते । अतः नक्षत्राधानेऽप्यजस्रधारणं पूर्णिमागमेऽपि (अजस्रमध्ये) कर्तव्यमेवेति पक्षान्तरमपि पश्यामः । याज्ञिकाः इमं पक्षं नानुसरन्ति । तत्र च कारणं विकल्पप्रतिभानमेव "केचित् मन्यन्ते" इति ॥

४. निगमनम्

एवञ्चामायां होमपूर्वाधानेऽजस्रधारणस्य नित्यत्वमेवाकरणे मानं नास्ति । प्रत्युताधानाङ्गलोपो वा पुरुषार्थलोपो वा नूनं भवत्येव, अजस्रधारणव्रतजन्यस्यापूर्वस्यानुत्पन्नत्वात् । अमावास्याधानविषये धूर्तस्वामिनः एवं वदन्ति --

अमावास्यायामादधानस्य कर्तुरेतद्व्रतं यथाजस्रताहतधारणमप्रवासः स्वयं होमः दानकर्मणां (प्रथमदोहनप्रयुक्तगोः दानं) क्रमेण प्रयोगः । (पुट सं. ५८९) इति
। एवञ्चामायां होमपूर्वकाधानेऽजस्रधारणव्रतत्यागः यजमानस्य व्रतलोपदायक इत्यत्र न संशयः ।

स्थिरीकरणभागः

५. शङ्कोत्थापनं समाधिश्च

स्यादेतत् । आधानन्तावदेकरूपतया सर्वेषां भाव्यम् । आरम्भकालापेक्षयाऽजस्रधारणाधारणे कथं स्यातामिति । उच्यते । पुरोडाशः चरुः इत्युभयमप्योषधिद्रव्यकहविः। समानेऽप्योषधिधर्मत्वे पुरोडाशसंस्काराः सर्वे चरौ न सम्भवन्ति । यथा पुरोडाशे पेषणं भवति पिष्टसंपादनाय । चरौ पेषणं नास्ति तन्डुलानामेवसद्भावः । एवं कपाले पुरोडाशस्योपरि चाङ्गाराध्यूहनं, भस्माध्यूहनं, क्रमेण पुरोडाशे भवति चरौ तयोरसम्भवः । एवं प्रातर्दोहविकारेऽपि पशुयागे वत्सापाकरणदोहनमन्त्राणामर्थलोपान्निवृत्तिः । एवं प्रकृतेऽपि इष्टिपूर्वे सोमपूर्वे च द्वादशाहकालाभावादजस्र-धारणव्रतनिवृत्तिः । सोमे विकल्पः प्रागेव प्रपञ्चितः । अत आधानक्रियासाम्येऽपि कालापेक्षमजस्रधारणाधारणे भवतः । अतश्चामावास्याधाने, आगामि पुर्णिमायाःप्राक् द्वादशाहपरिमितकालस्य विद्यमानत्वादजस्राः नियमेन भवन्ति । धारणाधारणवैषम्यन्त्वर्थरूपकालसापेक्ष्यं ज्ञेयम् ॥

पवमानहविषां द्वादशाहे द्व्यहे.........संवत्सरे वा (आप.श्रौ. ५.२१.२) 

इति कालविकल्पस्योक्तत्वात् सर्वत्राजस्रधारणस्य विकल्पः इति न वक्तव्यम् । कालभेदेन भिन्नभिन्नकालेषु आग्नेयस्य पवमानहविषां निर्वापपक्षेऽजस्राभावः साध्यः । परन्तु सहनिर्वापपक्षे अजस्राभावः नैव भवति । वस्तुतस्तु सर्वेषां हविषां समानतन्त्रतया एकदा एकस्यामिष्टौ निर्वापम् आश्वलायनः विदधाति --

आद्या वा (आश्व.श्रौ. २.१.३२) इति ।

(आपस्तम्बेन सर्वेषां हविषां समानततन्त्रतया यागः नैव विहितः इत्यपि बोध्यम् ।) अयमेव पक्षः अधुना याज्ञिकैः आश्रीयते  सर्वत्र । एवमजस्राभावनिमित्तं भिन्नकालनिर्वापः । भिन्नकालनिर्वापस्य निमित्तस्यापाये अजस्रधारणाभाव-नैमित्तिकस्याप्यपायः । एवं सद्यः सहनिर्वापपक्षे अजस्रधारणं नित्यं पूर्वोक्तस्थले । अयमपरो हेतुः अजस्रधारणकर्तव्यत्वे ज्ञेयः ॥


६. अजस्रधारणमग्नीनामपि परम्परयाऽपूर्वसम्पादकत्वकथनम्

नन्वेवमप्यजस्रधारणव्रतमाधानस्याङ्गं तस्य लोपेऽङ्गिनः आधानस्य वैकल्यं न स्यादिति चेत् सत्यम् । "आधानमपवृज्य" इति सूत्रकारप्रयोगात् (पुर्णमासाधाने) अजस्रं विनाऽप्याधानं समाप्येति वदता सूत्रकारेणाजस्रधारणस्याङ्गाभावः सूचित इति प्रतिभाति । तथाऽप्यजस्रव्रतधारणस्य लोपे यजमानस्य पुरुषार्थसम्पत्तेरभावात्  न्यूनतैवाधानस्य । कथमिति चेत् वक्ष्यते । आधानप्रभृति यजमान एवाग्नयः --

यजमानो वा अग्नेर्योनिः (तै.सं. ३.४.१०.५), अहं त्वदस्मि (तै.ब्रा. १.२.१.२०)

इत्यादि श्रुतिभ्यः अधानादारभ्य यजमान एवाग्नय इति स्फुटम् ।

एवञ्चाजस्रधारणव्रतानुष्ठानेन यजमानसंस्कारेण, यजमानेऽदृष्टरूपेण विद्यमानानां त्रयाणां वैतानिकानामग्नीनामापि संस्करः भवत्येव । अत एव अजस्रधारणव्रतं पुरुषार्थतया भाष्यकारेणोपवर्णितम् । अतः अमावास्याधानकर्तुः कालसद्भावाजस्राकरणे पुरुषार्थलोपः भवत्येव । अग्नीनां च व्रतजन्यापूर्वत्वं न स्यात् । अन्यकालेषु कृताधानानां द्वारलोपादजस्राकरणेऽपि न क्षतिः । तेषां विषये शास्त्रसम्मतः अजस्रत्यागः । 


 ७. व्रातपतीनप्रायश्चित्तिः

अपि च। अजस्रव्रतधारणं यजमानस्यैव पुरुषार्थतया वर्ण्यते, व्रतलोपस्य सद्भावात्। तत्प्रतीकारतया व्रातपत्यनुष्ठीयते चेत् अजस्राकरणदोषनिवृत्तिः इति यदि उ
च्येत, तत्रोच्यते। न । व्रातपतीविधायकब्राह्मणे सायणाचार्याः एवं वदन्ति --

अग्नये व्रतपतये.......वत्यो भवति (तै.सं. २.२.२) इति । अव्रत्यं यागव्रतविरोधि, अनृतवादादिकम् । सोऽग्निः एव एनमव्रत्यचारिणं व्रतं प्रापयति। ततः उत्तरेषु याग व्रतेषु योग्योभवति इति ।

अत्र आण्डपिल्लाऽप्येवं जागर्ति --

एतेषां (आहिताग्निव्रतानां) एकस्मिन्नक्रियमाणे व्रातपतीष्टिः कर्तव्या, इति ।

तत्र सूत्राणि पश्यामः --

अनन्तरमाधानादाहिताग्निव्रतानि । नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सूर्योढमतिथिं वसत्यै नापरुन्धीत । नर्बीसपक्वस्याश्नीयात् । क्लिन्नं दारु नादद्ध्यात् । अन्तर्नाव्यपां नाश्नीयात् । स्वकृत इरिणे नावस्येत् । पुण्यः स्यात् ।...... (आप.श्रौ. ५.२५.२......१९)


इत्यादिकं यावज्जीवानुष्ठेयमाहिताग्निव्रतमुक्तम् ॥

अत्रोक्तानां व्रतानामतिक्रमेऽन्यतमस्यापि, व्रतलोपः अव्रत्यः । अत एतादृशस्थलेषु व्रतलोपः भवति । ततःपरं व्रातपती क्रियते । व्रतलोपस्य प्रायश्चित्तं कृतं भवति । ततःपरं क्रियमाणानुष्ठानयोग्यो भवतीति सायणभाष्यार्थः ।


परन्त्वजस्रधारणव्रतमाहिताग्निव्रतजातस्य कथनात् प्रागेवोक्तं सूत्रकारैः । अतोऽजस्रधारणव्रतलोपसमीकरणसामर्थ्यं व्रातपत्याः न सम्भवति । "सर्वस्य वा एषा प्रायश्चित्तिः" इत्यश्वमेधे श्रूयते ।  तथा व्रातपती सर्वव्रतलोपप्रायश्चित्तिः न भवति । तथा सति स्मार्तकर्मलोपानामपि स्मृत्युक्तप्रायश्चित्ते कर्तव्ये, तत्रापि व्रातपती प्रसज्येत ।  तथा न सम्भवति । आहिताग्निव्रतलोपप्रायश्चित्तिः व्रातपती । ततः पूर्वं प्रवृत्तस्याजस्रधारणव्रतस्य लोपे व्रातपती न प्रवर्तते । आहिताग्निव्रतानां लोपे खलु व्रातपती विहिता । तच्च पूर्वमेवोक्तम् । 

८. अजस्राकरणे लौकित्वसम्भवोऽग्नीनां, प्रथमारम्भाधिकाराभावश्च

अस्तु नाम । यजमानस्य व्रतलोपः यद्यङ्गीक्रियते अजस्रधारणव्रतस्याकरणे, तर्हि यजमानः अव्रत्यः इत्यनिच्छताप्यजानताप्यङ्गीकृतं भवति । तथा सत्यव्रत्येन (व्रतलोपयुक्तेन) कृतारम्भाः अग्निहोत्रदर्शपूर्णमासपशुबन्धपिण्डपितृयज्ञाः अनारब्धा एव स्युः ।  यजमानस्याव्रत्यदोषस्याङ्गीकृतत्वात्, प्रथमारम्भेषु कथमधिकृतो भवेत् । सुधीभिः विवेचनीयम् । देशकालकतॄणां शुद्धिः प्रथमारम्भस्य धर्मशास्त्रे प्रपञ्चितं द्रष्टव्यम् । अतः अव्रत्येनाजस्रधारणहीनेन कृतारम्भाः साध्वारम्भाः न स्युः । व्रतलोपप्रायश्चित्तकरणे प्रवृत्तिः भवद्भिरेव प्रकटीकृतत्वात् । वस्तुतस्तु सा प्रायश्चित्तिः व्रातपती न सम्भवत्यजस्रधारणव्रतलोपस्येति पूर्वमेव प्रतिपादितम् । अतः व्रतलोपमात्राङ्गीकारेऽपि प्रथमारम्भाः वत्सरसाध्याः शुद्धपदवीं नारोहन्ति । एषोऽपरिहार्यो दोषः ॥

अन्यच्च । अमावास्यायां होमपूर्वाधानेऽजस्रधारणं नित्यमिति विस्तरेण प्रपञ्चितम् । तथाकरणे आश्वपदिकेऽग्निहोत्रारम्भार्थं दशहोतृहोमः अध्वर्युणा कार्यः । द्वादशरात्रं यजमानः स्वयमग्निहोत्रं जुहोति । त्रयोदशदिने प्रातर्होमेऽनुष्ठिते आहवनीयान्वाहार्यपचनयोस्त्यागः । त्रयोदशदिने यः सायमग्निहोत्रं जुहोति तस्मै प्रथमाग्निहोत्रकाले या गौः दुग्धा सा यजमानेन देया । एतत् सर्वं रुद्रदत्तवृत्तौ धूर्तस्वमिभाष्ये रामाण्डाराणां वाक्येषु स्पष्टं प्रदिपादितम् । एवं स्तिथे यद्यजस्रधारणं न क्रियते तर्ह्यविधिना कृतमकृतमिति न्यायेन कृतान्यपि कर्माण्यकृतान्येव । दशहोतृहोमार्थं गार्हपत्यादग्नेरुद्धरणं, प्रत्यहं सयम्प्रातरग्निहोत्रहोमार्थमग्नेरुद्धरणञ्च, यदि क्रियते तर्हि उद्धरणस्याप्राप्तत्वादचोदितोद्धर
णं, गार्हपत्याग्नेः लौकिकत्वस्म्पादकं भवति । तथा च बौधायनः --

अचोदितेन पाकेन कृतेनोद्धरणेन वा ।
लौकिकोऽग्निः स विज्ञेयः पुनराधानमर्हति ॥
-- (वैद्यनाथदीक्षितीये वर्णाश्रमधर्मकाण्डे पुट सं ८२, कुम्भकोणमुद्रणम्) ।

अस्यायमर्थः । चोदनां विना यः कोऽपि पाकविशेषः गार्हपत्ये कृतश्चेत् गार्हपत्यः लौकिको भवति ।  एवं चोदनां विना गार्हपत्यादुद्धरणे कृते गार्हपत्याग्निः लौकिकस्संपद्यते । इदमेव वाक्यं त्रिकण्डमण्डनटीकायामपि वर्तते । अजस्रधारणस्यामावास्याधाने नित्यत्वात् पुनः पुनः अग्निप्रणयनं गार्हपत्यादुद्धरणं न सम्भवति ।  तत्र धूर्तस्वामिनः --

आधानात् द्वादशाहमजस्राः । नाजस्रेषु धृष्ट्यादानाभिमन्त्रणबोधनादीनि विहरणार्थत्वात् । (पुट सं ५७७) इति । 

अस्यायमर्थः ।

अजस्रधारणतयाऽऽयतनेष्वग्नीनां सद्भावात् प्रणयनार्थाः, धृष्टिरसि, सुगार्हपत्यो विदहन्, उद्बुध्यस्वेत्यादीनां विश्वदानीपर्यन्तानां निवृत्तिः ।  "विश्वदानीमाभरन्त" इत्येत्तु भवत्येव । पुनः पुनः प्रणयनेनाचोदितेन मार्गेणोद्धरणं कृतं, अजस्रधारणकर्तव्यदिनेषु । दशहोत्रर्थं कृतमुद्धरणञ्च अचोदितं केवलोद्धरणमेवाश्वपदिके होतव्यत्वात् । तच्च पूर्वमेव विमृष्टम् । अग्निहोत्रार्थमुद्धरणमपि चोदनाविहीनोद्धरणमेव ।  एवञ्च विहरणमन्त्राः अप्राप्ताः, परन्तु ते पुनः पुनः प्रयुक्ताः अग्निहोत्रकाले । तथा च विधिहीनाः प्रणयनपूर्वकहोमाः कृताः, अचोदितोद्धरणायैव कल्पन्ते । अजस्रेषु विहरणमन्त्राणामभावः पूर्वमेवोक्तः । अजस्रधारणाकरणमेको दोषः । चोदनां विना पुनः पुनः प्रणयनमपीत्यपरो दोषः । तेन च गार्हपत्यः लौकिकः सम्पन्नो भवति ॥
 

निरुद्धगतिकतया यदि सहसोच्येत, भाष्यकारादीनां वाक्यमप्रमाणमिति, तर्हि न वयं प्रतिवक्तुं शक्ताः । स्मृतिकारः हारीतः अत्र प्रतिवदति --

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ -- (वैद्यनाथदीक्षितीये वर्णाश्रमधर्मकाण्डे पुट सं. ५, कुम्भकोणमुद्रणम्) ।

इति । एवं चामावास्यायां कृतं होमपूर्वाधानमजस्रधारणव्रतम् विनाग्नीनां वैतानिकत्वं न सम्पादयति । पूर्वोक्तरीत्या लौकिका एव स्युः । आस्तिकाः सारासारविवेचकाः सुधीमणयः अत्र सारं पश्येयुरिति दृढमतयः वयं अस्मदाचार्यान् स्मारं स्मारं, नत्वा विरमामः ।

कृष्णेन सुब्बुपूर्वेण यज्वना साग्निकक्रतुं ।
विमर्शोऽजस्रविषये कृतस्तातप्रसादतः ॥ 


॥ इति शम् ॥


                                                                                                                                                                        

No comments:

Post a Comment